श्रीमद्भिर्जितपुलिनानि माधवीना-
मारोहैर्निबिडबृहन्नितम्बबिम्बैः ।
पाषाणस्खलनविलोलमाशु नूनं
वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥

मल्लिनाथः श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिः निबिडा बृहन्तश्च नितम्बबिम्बाः कटिपश्चाद्भागा येषां तैः माधवस्येमा माधव्यस्तासां हरिवधूनां आरुह्यन्त इत्यारोहैः कटिपुरोभागैर्जघनैः जितपुलिनानि जितसैकतानि सिन्धोरवरोधनानि समुद्रमहिष्यः । नद्य इत्यर्थः । वैलक्ष्यात्पराजयकृतमनःसंकोचाद्धेतोः पाषाणेषु स्खलनेनाभिघातेन विलोलं यथा तथा आशु ययुः अगुः नूनम् । नदीनां स्वाभाविक्याः पाषाणस्खलिताशुगतेर्वैलक्ष्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
श्री द्भि र्जि पु लि ना नि मा वी ना
मा रो है र्नि बि बृ न्नि म्ब बि म्बैः
पा षा स्ख वि लो मा शु नू नं
वै क्ष्या द्य यु रो ना नि सि न्धोः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.