Loading data... On slow networks this could take a few minutes.
100%

वक्षेभ्यो घनमनुलेपनं यदूना-
मुत्तंसानाहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ
चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥

मल्लिनाथः वक्षोभ्य इत्यादि ॥ वारि सरउदकं कर्तृ यदूनां यादवानां वक्षोभ्यो घनं सान्द्रमनुलेपनमङ्गरागमहरत । ञित्त्वात्तङ् । *अत्र `वधूनाम्` इति क्वाचित्कः पाठो वक्षोजानुपेक्ष्य वक्षोमात्रनिर्देशादुत्तरश्लोके तेषामिति पुंलिङ्गपरामर्शाच्च न ग्राह्यः । मूर्धजेभ्यः शिरोरुहेभ्य उत्तंसान् शेखरानहरत । नेत्राणां मदरुचिर्मदरागोऽक्षतैव तथैव तस्थौ । वारिविहारस्यापि रागजनकत्वादिति भावः । अत एव रागद्वयस्याप्यभेदाध्यवसायेन तदवस्थानिर्देशादतिशयोक्तिः । तथा हि—महतां चक्षुषि भव श्चक्षुष्यः प्रियोऽक्षिजश्च । `प्रियेऽक्षिजे च चक्षुष्यः` इति विश्वः । `शरीरावयवाच्च` (अष्टाध्यायी ४.३.५५ ) इति यत् । परैरलङ्घ्यो दुर्धर्षः खलु । चक्षुष्य इति श्लेषमूलातिशयोक्तिः । तया पूर्वोक्तया च संकीर्णोऽयमर्थान्तरन्यासः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
क्षे भ्यो नु ले नं दू ना
मु त्तं सा ना वा रि मू र्ध जे भ्यः
ने त्रा णां रु चि क्ष तै स्थौ
क्षु ष्यः लु तां रै ङ्घ्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.