यो बाह्यः स खलु जलैर्निरासि रागो
यश्चित्ते स तु तदवस्थ एव तेषाम् ।
धीराणां व्रजति हि सर्व एव नान्तः-
पातित्वादभिभवनीयतां परस्य ॥

मल्लिनाथः य इति ॥ तेषां यदूनां बहिर्भवो बाह्यः । `बहिषष्टिलोपो यञ्च` (वा०) इति वचनात् यञ् प्रत्ययः । यो रागोऽङ्गरागः स रागो जलैस्तोयैः, जडैश्च निरासि निरस्तः खलु । अस्यतेः कर्मणि लुङ् । चित्ते यो रागः स तु सैवावस्था यस्य स तदवस्थ एव । न निरस्त इत्यर्थः । अत्र रागयोरभेदाध्यवसायादतिशयोक्तिः । तथा हि सर्वोऽपि धीराणां महतामन्तःपातित्वात् । अन्तर्गतत्वादेवेति यावत् । परस्याभिभवनीयतां न व्रजति । अन्यथा व्रजत्येवेत्यर्थः । पूर्ववदलंकारः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
यो बा ह्यः लु लै र्नि रा सि रा गो
श्चि त्ते तु स्थ ते षाम्
धी रा णां व्र ति हि र्व ना न्तः
पा ति त्वा भि नी तां स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.