Loading data... On slow networks this could take a few minutes.
100%

कस्याश्चिनमुखमनु धौतपत्रलेखं
व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्चल्कव्यतिकरपिञ्चरान्तराभि-
श्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥

मल्लिनाथः कस्याश्चिदिति ॥ धौतपत्रलेखं क्षालितपत्रावलीकं कस्याश्चिन्मुखमनु मुखेन संबद्धं यथा तथा । मुखे इति यावत् । `तृतीयाथै-` (अष्टाध्यायी १.४.८५ ) इत्यनोः कर्मप्रवचनीयत्वाद्द्वितीया । सलिलभरेणावलम्बिनीभिर्लम्बमानाभिः । आर्जवं&#३२; गताभिरित्यर्थः। किंजल्कव्यतिकरेण केशरमिश्रणेन पिञ्जराण्यन्तराणि मध्यभागा यासां ताभिः । अलकाग्राणि वल्लर्यो मञ्जर्य इवेत्युपमितसमासः । `वल्लरी मञ्जरी स्त्रियाम्` इत्यमरः । ताभिरलकाग्रवल्लरीभिश्चित्रश्रीर्मकरिकापत्रशोभा अलं व्यातेने संपादिता । तनोतेः कर्मणि लिट् । अत्र चित्रस्य श्रीरिव श्रीरिति निदर्श नाभेदः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्या श्चि मु नु धौ त्र ले खं
व्या ते ने लि रा म्बि नी भिः
कि ञ्च ल्क व्य ति पि ञ्च रा न्त रा भि
श्चि त्र श्री का ग्र ल्ल री भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.