दन्तानामधरमयावकं पदानि
प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः ।
आनिन्युः श्रियमधितोयमङ्गनानां
शोभायै विपदि सदाश्रिता भवन्ति ॥

मल्लिनाथः दन्तानामिति ॥ तोयेष्वधि अधितोयम् । विभक्त्यर्थेऽव्ययीभावः । अङ्गनानामयावकं प्रक्षालितलाक्षारागमधरं दन्तानां पदानि दन्तक्षतानि । तथा अविलेपनां धौताङ्गरागां तनुं शरीरं प्रत्यग्रा नवा नखाङ्काश्च श्रियमानिन्युः प्रापया. मासुः । `नीवह्योर्हरतेश्चैव` इति वचनाद्द्विकर्मकत्वम् । तथा हि—सतः सज्जनान् , सुन्दरांश्चाश्रिताः सदाश्रिताः, ये केचिदिति शेषः । विपदि विभवाभावकालेऽपि शोभायै वैभवाय भवन्ति । `क्लपेः संपद्यमाने चतुर्थी वक्तव्या` (वा०) इति क्लृपेरर्थनिर्देशाच्चतुर्थी । अर्थान्तरन्यासः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्ता ना या कं दा नि
प्र त्य ग्रा स्त नु वि ले नां खा ङ्गाः
नि न्युः श्रि धि तो ङ्ग ना नां
शो भा यै वि दि दा श्रि ता न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.