Loading data... On slow networks this could take a few minutes.
100%

आरूढः पतित इति स्वसम्भवोऽपि
स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोल्पलं वधूनां
वीचिभिस्तटमनु यन्निरासुरापः ॥

मल्लिनाथः आरूढ इति ॥ स्वसंभवोऽप्यात्मसंभवोऽपि आरूढ उच्चस्थानगत उत्तमाश्रयश्च पतितस्तथा भ्रष्ट इति हेतोः । आरूढपतितत्वादित्यर्थः । स्वच्छानां निर्मलानां परिहरणीयतां त्याज्यत्वमुपैति । `प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः` (याज्ञ० स्मृतौ-व्यव० १८३) इति स्मरणादिति भावः । वीचीभिस्तटमनु तटं प्रति निरासुश्चिक्षिपुः । कुतः । यस्मादापः वधूनां कर्णेभ्यश्च्युतमसितोत्पलम् । स्वसंभवमपीति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः समर्थनवाक्यगतश्लेषमूलातिशयोक्त्या संकीर्णः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
रू ढः ति ति स्व म्भ वो ऽपि
स्व च्छा नां रि णी ता मु पै ति
र्णे भ्य श्च्यु सि तो ल्प लं धू नां
वी चि भि स्त नु न्नि रा सु रा पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.