स्नान्तीनां बृहदमलोदबिन्दुचित्रै
रेजाते रुचिरदृशामुरोजकुम्भौ ।
हाराणां मणिभिरुपाश्रितौ समन्ता-
दुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥

मल्लिनाथः स्नान्तीनामिति ॥ स्नान्तीनां जलमवगाहमानानां रुचिरदृशां सुदृशां संबन्धिनौ बृहद्भिरमलैश्चोदबिन्दुभिश्चित्रौ । `मन्थौदन-` (अष्टाध्यायी ६.३.६० ) इत्यादिना उदकशब्दस्योदादेशः । उरोजकुम्भौ उत्सूत्रैः हाराणां मुक्ताहाराणां मणिभिर्गुटिकाभिरुपहन्यते उपगम्यते, पीड्यते वा । `उपन्न आश्रये` (अष्टाध्यायी ३.३.८५ ) इति हन्तेरप्प्रत्ययान्त उपधालोपीति निपातः । गुणवत औदार्यादिगुणवतः, सूत्रवतश्च उपघ्नस्य काम्या आत्मन इच्छा गुणवदुपघ्नकाम्या तया गुणवदुपघ्नकाम्यया । आत्मनो गुणवदाश्रयाकाङ्क्षयेत्यर्थः । `काम्यच्च` (अष्टाध्यायी ३.१.९ ) इति काम्यच्प्रत्यये प्रत्ययान्तधातुत्वात् `अप्प्रत्ययात्` (अष्टाध्यायी ३.३.१०२ ) इति स्त्रियामप्प्रत्यये टाप् । समन्तादुपाश्रितौ संश्रिताविव रेजाते राजेते स्म । `फणां च सप्तानाम्` (अष्टाध्यायी ६.४.१२५ ) इति विकल्पादेकाराभ्यासलोपौ । गुणवच्छब्देन सूत्रशब्देन च सूत्रभेदे सूत्रान्तरमशिश्रियदिति प्रतीतेः श्लेषानुप्राणितयातिशयोक्त्यानुप्राणितेयमुत्प्रेक्षा
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्ना न्ती नां बृ लो बि न्दु चि त्रै
रे जा ते रु चि दृ शा मु रो कु म्भौ
हा रा णां णि भि रु पा श्रि तौ न्ता
दु त्सू त्रै र्गु दु घ्न का म्य ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.