अन्यूनं गुणममृतस्य धारयन्ती
सम्फुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा
रक्तत्वं व्यधित वधूदृशां सुरा च ॥

मल्लिनाथः अन्यूनमिति ॥ अन्यूनं समग्रममृतस्य पीयूषस्य गुणं माधुर्यादिकं धारयन्ती। अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते ॥` इति (सुश्रुते सू० स्था० अ० ४५), उक्तोदकगुणं च धारयन्ती सरसी । पक्षे `अमृतं यज्ञशेषे स्यात्पीयूषे सलिले ध्रुवम्` इति विश्वः । संफुल्लानि विकचानि । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्ठातस्य लत्वम् । स्फुरितान्युज्ज्वलानि च यानि सरोरुहाण्येकत्र सहजानि, अन्यत्र संस्कारार्थं क्षिप्तानि तान्यवतंसो भूषणं यस्याः सा तथोक्ता । प्रेयोभिः सह निषेव्यमाणा । स्नानपानाभ्यामिति भावः । सरसी पुष्करिणी वधूदृशां रक्तत्वमारुण्यं व्यधित विधत्ते स्म । तथा सुरा च । व्यधितेति धाञः कर्तरि लुङि तङ् । इहोत्साहवर्धनाय मुहुः सेव्यत्वात् `शृङ्गाणि-` (८।३०) इति श्लोके सलिलक्रीडासंभारेषु मार्द्वीकमिति परिगणनाच्च सरसीवत् सुराया अपि प्रकृतत्वविवक्षायां तुल्ययोगिता, तदविवक्षायां तु दीपकम् । `सुरेव` इति पाठे त्वप्रकृतविवक्षैव कार्या । अन्यथा उपमानुपमा स्यात् । न च तुल्ययोगितावकाशः । इवशब्देन गम्यौपम्यलक्षणभङ्गादिति
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्यू नं गु मृ स्य धा न्ती
म्फु ल्ल स्फु रि रो रु हा तं सा
प्रे यो भिः सी नि षे व्य मा णा
क्त त्वं व्य धि धू दृ शां सु रा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.