निर्धौते सति हरिचन्दने जलौघै-
रापाण्डोर्गतपरभागयाङ्गनायाः ।
अह्नाय स्तनकलशद्वयादुपेये
विच्छेदः सहृदययेव हारयष्ट्या ॥

मल्लिनाथः &#३२; निधौत इति ॥ हरिचन्दने रक्तचन्दने जलौघैर्निर्धौते क्षालिते सति । धावेः कर्मणि क्तः । च्छ्वोः शूडनुनासिके च` (अष्टाध्यायी ६.४.१९ ) इति वकारस्योठादेशः । `एत्येधत्यूसु` (अष्टाध्यायी ६.१.८९ ) इति वृद्धिरौकारः । आपाण्डोः पाण्डुवर्णादङ्गनायाः स्तनकलशद्वयात् गतपरभागया सावर्ण्याद्विगतवर्णोत्कर्षया । अत एव सामान्यालंकारः । सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात् । हारयष्ट्या कर्त्र्या सहृदयया सचित्तयेवेत्युत्प्रेक्षा । निजपरभागहानिपरिज्ञानवत्येवेत्यर्थः । अह्नाय सपदि । `स्राक् झटित्यञ्जसाह्नाय द्राङ् मंक्षु सपदि द्रुते` इत्यमरः । विच्छेदस्रुटनमुपेये प्राप्तः। हीनजीवनादजीवनमेव वरमिति भावः । उपपूर्वादिणः कर्मणि लिट् । विक्षोभहेतुकस्य हारविच्छेदस्य सहृदयहेतुकत्वोत्प्रेक्षा, सा चोक्तसामान्योत्थापितेति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नि र्धौ ते ति रि न्द ने लौ घै
रा पा ण्डो र्ग भा या ङ्ग ना याः
ह्ना स्त द्व या दु पे ये
वि च्छे दः हृ ये हा ष्ट्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.