आस्माकी युवतिदृशामसौ तनोति
च्छायेव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः
पनीयैरिति विदधाविरेऽञ्जनानि ॥
आस्माकी युवतिदृशामसौ तनोति
च्छायेव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः
पनीयैरिति विदधाविरेऽञ्जनानि ॥
च्छायेव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः
पनीयैरिति विदधाविरेऽञ्जनानि ॥
मल्लिनाथः
आस्माकीति ॥ अस्माकमियमास्माकी अस्मदीया । अस्मत्कारितेत्यर्थः । `युष्मदस्मदोरन्यतरस्यां खञ्च` (अष्टाध्यायी ४.३.१ ) इति चकारादण्प्रत्ययः । तस्मिन्नणि च युष्माकास्माकौ` (अष्टाध्यायी ४.३.२ ) इति प्रकृतेरस्माकादेशः `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । असौ छाया कान्तिः। विमलेति यावत् । सैव युवतिदृशामनपायिनीं स्थायिनीं श्रियं तनोति एभिरञ्जनैः किमेतत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । एवं मत्वा । उक्तप्रकारेणाञ्जनवैफल्यं निश्चितेत्यर्थः । अत एव गम्योत्प्रेक्षेयम् । स्वगुणस्य स्वाविष्कृतदृङ्नैर्मल्यगुणस्य पिधानं तिरोधानम् । `अपिधानतिरोधानपिधानाच्छादनानि च` इत्यमरः । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यकारलोपः । तेन साभ्यसूयैः सेर्ष्यैः पातुमर्हैः पानीयैः । `अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्` इत्यमरः । `तव्यत्तव्यानीयरः` (अष्टाध्यायी ३.१.९६ ) इति पिबतेरनीयर् प्रत्ययः । अञ्जनानि कज्जलानि इति अनेन स्वगुणप्रकाशनयोग्यतया विवक्षितेन प्रकारेण । निःशेषत्वरूपेणेत्यर्थः । विदधाविरे विधौतानि । क्षालितानीत्यर्थः । `धावु गतिशुद्ध्योः` इति धातोः कर्मणि लिट्
छन्दः
प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| आ | स्मा | की | यु | व | ति | दृ | शा | म | सौ | त | नो | ति |
| च्छा | ये | व | श्रि | य | म | न | पा | यि | नीं | कि | मे | भिः |
| म | त्वै | वं | स्व | गु | ण | पि | धा | न | सा | भ्य | सू | यैः |
| प | नी | यै | रि | ति | वि | द | धा | वि | रे | ऽञ्ज | ना | नि |
| म | न | ज | र | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.