Loading data... On slow networks this could take a few minutes.
100%

प्रभ्रष्टै सरभसमम्भसोऽवगाह-
क्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
आकल्पैः सरसि हिरण्मयैर्वधूना-
मौर्वाग्निद्युतिशकलैरिव व्यराजि ॥

मल्लिनाथः प्रभ्रष्टैरिति ॥ सरभसं ससत्वरम् अम्भसोऽवगाहा एव क्रीडास्ताभिः प्रभ्रष्टैर्जलावगाहक्षोभादम्भसि च्युतैर्विदलिता विकसिता यूथिकाः पीतयूथिका हेमपुष्पिकापरपर्याया विवक्षिताः, अन्यथा पिशङ्गत्वायोगात् । `गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका` इत्यमरः । तद्वत्पिशङ्गैर्हिरण्मयैः सौवर्णैः । `दाण्डिनायन-` (अष्टाध्यायी ६.४.१७४ ) इत्यादिना निपातः । वधूनामाकल्पैर्भूषणैः सरसि और्वाग्निद्युतिशकलैर्जलाशयत्वादत्रापि संनिहितैर्वडवानलज्वालाखण्डैरिवेत्युत्प्रेक्षा । व्यराजि विराजितम् । भावे लुङ्
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र भ्र ष्टै म्भ सो ऽव गा
क्री डा भि र्वि लि यू थि का पि ङ्गैः
ल्पैः सि हि ण्म यै र्व धू ना
मौ र्वा ग्नि द्यु ति लै रि व्य रा जि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.