Loading data... On slow networks this could take a few minutes.
100%

स्वं रागादुपरि वितन्वतोत्तरीयं
कान्तेन प्रतिवारितातपायाः ।
सच्छत्रादपरविलासिनीसमूह-
च्छायासीदधिकतरा तदापरस्याः ॥

मल्लिनाथः स्वमिति ॥ रागाद्धेतोरुपरि प्रियाया मूर्धनि स्वं स्वकीयमुत्तरीयं वितन्वता विस्तारयता कान्तेन प्रियेण प्रतिपदं पदे पदे वारित आतपो यस्यास्तस्या अपरस्याः कस्याश्चिदङ्गनायाः सच्छत्रात् छत्रयुक्तादपरविलासिनीसमूहात् सकाशात् । `पञ्चमी विभक्ते` (अष्टाध्यायी २.३.४२ ) इति पञ्चमी । अधिकतरा छाया अनातपः कान्तिश्च तदा आसीत् । छत्रच्छायातोऽपि कान्तस्वहस्तधृतोत्तरीयच्छायैवानन्यसाधारणी ज्यायसी । मुखकान्तिरपि तस्या एव भूयसीति भावः । `छाया त्वनातपे कान्तौ` इत्यमरः । एतेन सच्छत्रादच्छत्रस्याधिकच्छायेति विरोधोऽपि निरस्त इति विरोधाभासोऽलंकारः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्वं रा गा दु रि वि न्व तो त्त री यं
का न्ते प्र ति वा रि ता पा याः
च्छ त्रा वि ला सि नी मू
च्छा या सी धि रा दा स्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.