Loading data... On slow networks this could take a few minutes.
100%

एकस्यास्तपनकरैः करालितया
बिभ्राणः सपदि सितोष्णावरणत्वम् ।
सेवायै वदनसरोजनिर्जितश्री-
रागस्य प्रियमिव चन्द्रमाश्चकार ॥

मल्लिनाथः एकस्या इति ॥ वदनसरोजेन स्त्रीमुखपङ्कजेन निर्जितश्रीश्चन्द्रमाः। एतेन वदनसरोजस्य चन्द्रविजयात् सरोजान्तरवैलक्षण्यं चन्द्रस्य निकृष्टत्वं चोक्तम् । अत एव सेवायै तत्सेवनार्थमागत्य तपनकरैः करालिताया भीषितायाः। पीडिताया इत्यर्थः । `करालो भीषणेऽन्यवत्` इति विश्वः । एतेन सेवावकाशो दर्शितः । एकस्याः कस्याश्चिदङ्गनायाः सपदि आतपक्षण एव सितोष्णवारणत्वं स्वयमेव श्वेतातपत्रत्वं बिभ्राणः सन् प्रियं चकारेव । इति क्रियास्वरूपोत्प्रेक्षा। पराजितः कयाचित्सेवनया जेतुश्चित्तसंतोषमुपार्जयतीति भावः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्या स्त रैः रा लि या
बि भ्रा णः दि सि तो ष्णा त्वम्
से वा यै रो नि र्जि श्री
रा स्य प्रि मि न्द्र मा श्च का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.