Loading data... On slow networks this could take a few minutes.
100%

संस्पर्शसुखोपचीयमाने
सर्वाङ्गे करतललग्नवल्लभायाः ।
कौशेयं व्रजदपि गाढतामजस्रं
सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥

मल्लिनाथः संस्पर्शेति ॥ करतले लग्नो वल्लभो यस्यास्तस्याः । स्वहस्तेन तद्धस्तं गृहीत्वा&#३२; गच्छन्त्या इत्यर्थः । अत एव नीरजाक्ष्याः सर्वाङ्गे संस्पर्शप्रभवेन प्रियाङ्गसंगप्रभवेन सुखेनोपचीयमाने पोषं गमिते सति । अत एव गाढतां दृढत्वं व्रजदपि विगलितनीवि सुखपारवश्याद्विश्लिष्टग्रन्थि कौशेयं दुकूलमजस्रं सस्रंसे स्वस्तम् । एषा हृष्टा हर्षितरोमा च
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सं स्प र्श सु खो ची मा ने
र्वा ङ्गे ग्न ल्ल भा याः
कौ शे यं व्र पि गा ता स्रं
स्रं से वि लि नी वि नी जा क्ष्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.