Loading data... On slow networks this could take a few minutes.
100%

सौगन्धं दधदपि काममङ्गनानां
दूरत्वाद्गतमाननोपमानम् ।
नेदीयो जितमिति लज्जयेव तासा-
मालोले पयसि मनोत्पलं ममज्ज ॥

मल्लिनाथः सौगन्ध्यमिति ॥ कामं पर्याप्तं सौगन्ध्यं सुरभिगन्धित्वं संबन्धित्वं च । `गन्धो गन्धक आमोदे लेशे संबन्धिगर्वयोः` इति विश्वः । दधदपि अहं दूरत्वात् पूर्वं दूरस्थत्वादङ्गनानामाननोपमानं मुखसादृश्यं गतम् । `दूरस्थाः पर्वता रम्याः` इतिवदिति भावः । संप्रति पुनस्तासां नेदीयो नेदिष्ठमन्तिकतमं सत् । `अन्तिकबाढयोर्नेदसाधौ` (अष्टाध्यायी ५.३.६३ ) इत्यन्तिकशब्दस्य नेदादेशः । जितं परिभूतमभूवमिति लज्जयेव महोत्पलमरविन्दम् आलोले चले पयसि ममज्ज । यथा `दूरे साम्येन दृश्यमानः संबन्धी संनिधाववमानितः क्वचिल्लज्जया निलीयते तद्वदिति । अत्र पयश्चलनकृतेऽब्जमज्जने लज्जाहेतुकत्वमुत्प्रेक्ष्यत इति श्लेषमूलातिशयोक्तिहेतूत्प्रेक्षयोः संसृष्टिः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सौ न्धं पि का ङ्ग ना नां
दू त्वा द्ग मा नो मा नम्
ने दी यो जि मि ति ज्ज ये ता सा
मा लो ले सि नो त्प लं ज्ज
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.