Loading data... On slow networks this could take a few minutes.
100%

नारीभिर्गुरुजघनस्थलानां-
आस्यश्रीविजितविकासिवारिजानाम् ।
लोलत्वादपहरतां तदङ्गराग-
संजज्ञे स कलुष आशयो जलानाम् ॥

मल्लिनाथः नारीभिरिति ॥ नारीभिः कर्त्रीभिः गुरुजघनस्थलैराहतानाम् आस्यश्रीभिर्मुखशोभाभिर्विजितानि विकासीनि वारिजानि पद्मानि येषां तेषां लोलत्वाच्चलत्वात्सतृष्णत्वाच्च । `लोलश्चलसतृष्णयोः` इत्यमरः । तासामङ्गरागमपहरतां क्षाल. यतां च जलानां तोयानां जडानां च स आशयो ह्रदो हृदयं च कलुषोऽप्रसन्नः क्षुभितश्च संजज्ञे संजातः । अपहर्तुस्ताडनस्वहरणादिभिराशयः कलुषो भवतीति ध्वनिः । अभिधायाः प्रकृतार्थे नियन्त्रणान्न श्लेषः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ना री भि र्गु रु स्थ ला नां
स्य श्री वि जि वि का सि वा रि जा नाम्
लो त्वा तां ङ्ग रा
सं ज्ञे लु यो ला नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.