Loading data... On slow networks this could take a few minutes.
100%

उद्वोढुं कनकविभूषणान्यशक्तः
सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः
साधीयो गुररभवद्भुजस्तरुण्याः ॥

मल्लिनाथः उद्वोढुमिति ॥ कनकविभूषणान्युद्वोढुमशक्तः । सौकुमार्यादिति भावः । अत एव सहाञ्चतीति सध्र्यङ् तेन सहचरेण कर्त्रा । ऋत्विगादिना क्विन्प्रत्ययः । `सहस्य सध्रिः` (अष्टाध्यायी ६.३.९५ ) इति सहशब्दस्य सध्र्यादेशः । `अनिदिताम्-` (अष्टाध्यायी ६.४.२४ ) इति नकारलोपः `अचः` (अष्टाध्यायी ६.४.१३८ ) इत्यकारलोपे `चौ` (६॥३।१३८) इति दीर्घः । वलयितानि वलयीकृतानि पद्मनालसूत्राणि मृणालतन्तवो यस्य सः । मृणालकृतकङ्कण इत्यर्थः । तथापि आरूढ आरूढवान् प्रतिवनितायाः सपत्न्याः कटाक्ष एव भारो यस्य सः । तया सासूयं दृष्ट इत्यर्थः । अत एव तरुण्या भुजो बाहुः साधीयो बाढतरमिति क्रियाविशेषणम् । `अन्तिकबाढयोर्नेदसाधौ` (अष्टाध्यायी ५.३.६३ ) इति बाढशब्दस्य साधादेशः । गुरुर्भारवान् , श्लाघ्यश्चाभवत् । अत्र कनकभूषणाभावेऽपि तत्कार्यगुरुत्ववर्णनाद्विभावना सा च गुरुरिति श्लेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितेति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
द्वो ढुं वि भू णा न्य क्तः
ध्री चा यि द्म ना सू त्रः
रू प्र ति नि ता टा क्ष भा रः
सा धी यो गु द्भु स्त रु ण्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.