सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।
कालिम्ना समधित मन् ।
रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥
सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।
कालिम्ना समधित मन् ।
रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥
कालिम्ना समधित मन् ।
रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥
मल्लिनाथः
सिक्ताया इति ॥ प्रणयवता प्रियेण क्षणं पूर्वमन्यां सपत्नीमभिषिच्य पश्चात् सिक्ताया अन्यस्या अबलायाः स्त्रिया वक्त्रं कर्म मन्युः कोप एव कर्ता । कालिम्ना&#३२; कार्ष्ण्येन । वैवर्ण्येन सहेति यावत् । समधित संदधे । बतेति खेदे । संपूर्वाद्दधातेः कर्तरि लुङि तङ् `स्थाध्वोरिच्च` (अष्टाध्यायी १.२.१७ ) इतीकारः । सिचः कित्त्वान्न गुणः । `ह्रस्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सकारलोपः । गलत्स्रवदक्ष्णोः संबन्धिः अञ्जनाम्भः कज्जलोदकमपशब्दं वर्णस्यापवादं प्राप। कोपकालिमतिरोधानेन स्वकालिम्न एव प्रकाशनादिति भावः । पूर्वेण वाक्यार्थेनोत्तरवाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.