Loading data... On slow networks this could take a few minutes.
100%

आबद्धप्रचुरपरार्घ्यकिङ्किणीको
रामाणामनवरतोदगाहभाजाम् ।
नारावं व्यतनुत मेखलाकलापः
कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥

मल्लिनाथः आबद्धेति ॥ उदकस्य गाहोऽवगाहनं उदगाहः । `मन्थौदन-` (अष्टाध्यायी ६.३.६० ) इत्यादिनोदादेशः । तमनवरतं भजन्ति यास्तासामनवरतोदगाहभाजां रामाणां स्त्रीणां संबन्धी आबद्धाः प्रोताः प्रचुरा भूयिष्ठाः परार्ध्याः श्रेष्ठाश्च किंकिण्यो यस्मिन् स तथोक्तः । `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप् । मेखलाकलाप आरावं ध्वनिं न व्यतनुत । तथा हि—जलेन सह सजलो जलार्द्रो गुणः सूत्रं यस्य सः । तथा डलयोरभेदाज्जडगुणो जडधर्मो जाड्यं तेन सहेति सजडगुणो जडश्च तस्मिन् कस्मिन्वा मेखलाकलापे पुंसि वा गिरां वाचां, ध्वनीनां च पटुत्वं सामर्थ्यम् । न कुत्रापीत्यर्थः । श्लेषमूलाभेदातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
द्ध प्र चु रा र्घ्य कि ङ्कि णी को
रा मा णा तो गा भा जाम्
ना रा वं व्य नु मे ला ला पः
स्मि न्वा गु णे गि रां टु त्वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.