हृतायाः प्रतिसखिकामिनान्यनाम्ना
ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
अन्तधिं द्रुतमिव कर्तुमश्रुवर्षै-
र्भूमानं गमयितुमीषिरे पयांसि ॥

मल्लिनाथः हूताया इति ॥ प्रतिसखि सख्याः समीपे । सखीसमक्षमित्यर्थः । समीपार्थेऽव्ययीभावे नपुंसकत्वह्रस्वत्वे । कामिना प्रियेणान्यस्याः सपत्न्याः नाम्ना अन्यनाम्ना । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । हूताया अत एव गलन्मुखेन्दुकान्तेः ह्रीमत्या लज्जितायाश्च । कस्याश्चिदिति शेषः । सरसि द्रुतं शीघ्रमन्तर्धिमन्तर्धानम् । श्रदन्तरोरुपसर्गवद्वृत्तिवचनात् `उपसर्गे घोः किः` (अष्टाध्यायी ३.३.९२ ) इति किप्रत्ययः । कर्तुमश्रुवर्षैः कर्तृभिः पयांसि सरोजलानि भूमानं गमयितुं वृद्धिं प्रापयितुम् । `गतिबुद्धि-` (अष्टाध्यायी १.४.५२ ) इत्यादिना अणिकर्तुः कर्मत्वं प्राधान्यादभिधानं च । ईषिरे इव इष्टानि किमु इत्युत्प्रेक्षेयमश्रुपातनिमित्ता । तथा मरणदुःखादपि दुःसहं सपत्न्या दुःखमिति वस्तुध्वनिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२ १३
हृ ता याः प्र ति खि का मि ना न्य ना म्ना
ह्री त्याः सि न्मु खे न्दु का न्तेः
न्त धिं द्रु मि र्तु श्रु र्षै
र्भू मा नं यि तु मी षि रे यां सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.