संक्रान्तं प्रियतमवक्षसोऽङ्गरागं-
साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः ।
तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे
कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥

मल्लिनाथः संक्रान्तमिति ॥ प्रियतमवक्षसः सकाशात् संक्रान्तं गाढालिङ्गनात्कुचतटलग्नमस्याः सिक्ताया अङ्गरागमधुनैव सरसि अम्भः कर्तृ । साधु निःशेषं हरिष्यते प्रमायति एवं तुष्ट्वा इति बुद्ध्वा सपदि तत्र तस्मिन्नङ्गरागे हृतेऽपि स्फुटनखलक्ष्मणो व्यक्तनखचिह्वायाः कस्याश्चिन्नायिकायाः संबन्धिनि सपत्न्या तेपे तप्तम् । भावे लिट् । तदिदमातपार्तस्य छायामन्विष्यतो दारुणदवदहनवेष्टनं यदङ्गरागमेव द्रष्टुमक्षमाया नखक्षतसाक्षात्कार इति । अत्र संतापशान्त्यर्थेन विपक्षाङ्गनाङ्गरागक्षालनेन तद्विरुद्धसंतापोत्पादनाद्विरुद्धकार्योत्पत्तिरूपो विषमालंकारः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सं क्रा न्तं प्रि क्ष सो ऽङ्ग रा गं
सा ध्व स्याः सि रि ष्य ते ऽधु ना म्भः
तु ष्ट्वै वं दि हृ ते ऽपि त्र ते पे
स्य श्चि त्स्फु क्ष्म णः त्न्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.