Loading data... On slow networks this could take a few minutes.
100%

नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः
साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।
पस्पर्श क्षणमनिलाकुलीकृतानां
शाखानामतुहिनरश्मिरन्तरालैः ॥

मल्लिनाथः नीरन्ध्रेति ॥ नीरन्ध्रैः सान्द्रैः द्रुमैः शिशिरां भुवं व्रजन्तीर्गच्छन्तीः ताः स्त्रीः अतुहिनरश्मिरुष्णांशुः क्षणमनिलेनाकुलीकृतानां चालितानां शाखानामन्तरालैर्नीरन्ध्रत्वेऽपि मुहुरनिलचालनजनितैरवकाशैर्मुहुः कौतुकादौत्सुक्यादिव साशङ्कम् । परदारत्वात्सभयमित्यर्थः । करैः पस्पर्श स्पृष्टवान् । अत्र चलच्छाखाहेतुकस्य तपनकरस्पर्शस्यौत्सुक्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नी न्ध्र द्रु शि शि रां भु वं व्र न्तीः
सा ङ्कं मु हु रि कौ तु का त्क रै स्ताः
स्प र्श क्ष नि ला कु ली कृ ता नां
शा खा ना तु हि श्मि न्त रा लैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.