Loading data... On slow networks this could take a few minutes.
100%

स्निह्यन्ती दृशमपरा निधाय पूर्णं
मूर्तेन प्रणयरसेन वारिणेव ।
कन्दर्पप्रवणमानाः सखीसिसिक्षा-
लक्ष्येण प्रतियुवमञ्जलिं चकार ॥

मल्लिनाथः स्निह्यन्तीति ॥ कंदर्पप्रवणमनाः स्मरपरवशचित्ता अत एव दृशं निधाय पुंस्येव दृष्टिं कृत्वा स्निह्यन्ती । दृष्टिविशेषेण स्नेहं प्रकाशयन्तीत्यर्थः । अपरा स्त्री सख्याः सिसिक्षा सेक्तुमिच्छा तस्या लक्ष्येण व्याजेन बद्धाञ्जलिरेव तिष्ठन्ती न तु सिञ्चन्तीति द्योतनाय सिसिक्षेतीच्छायां सनः प्रयोगः । प्रतियुवं युवानं प्रति । `अनश्च` (अष्टाध्यायी ५.४.१०८ ) इत्यव्ययीभावे समासान्तः । मूतेन मूर्तिमता प्रणयरसेनेवेत्युत्प्रेक्षा । पाठादर्थस्य बलीयस्त्वादिवशब्दस्य व्यवहितेनान्वयः । वारिणा पूर्णमञ्जलिं चकार । प्रार्थयामासेत्यर्थः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्नि ह्य न्ती दृ रा नि धा पू र्णं
मू र्ते प्र से वा रि णे
न्द र्प प्र मा नाः खी सि सि क्षा
क्ष्ये प्र ति यु ञ्ज लिं का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.