Loading data... On slow networks this could take a few minutes.
100%

आनन्दं दधति मुखे करोदकेन
श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प-
स्वेदाम्बुस्नपितमजायतेतरस्याः ॥

मल्लिनाथः आनन्दमिति ॥ आनन्दं दधति प्रियसंभावनया हर्षं दधाने श्यामाया मध्यमयौवनायाः स्त्रियः । `श्यामा यौवनमध्यस्था` इत्युत्पलः । मुखे वदने दयिततमेन अतिशयेन दयितः प्रियः । अतिशये तमप्प्रत्ययः । तेन का करोदकेनाञ्जलिजलेन सिच्यमाने सति ईर्ष्यन्त्या असहमानायाः । `परोत्कर्षाक्षमेर्ष्या स्यात्` इति लक्षणात् । इतरस्याः सपत्न्या वदनमसिक्तमपि । प्रियेणेति शेषः । अनल्पेन स्वेदाम्बुना स्नपितं सिक्तमजायताभवत् । ईर्ष्याकृतकोपकार्यत्वात् स्वेदादीनामिति भावः। असिक्तमपि सिक्तमिति विरोधः । तस्य स्वेदाख्यकारणोक्तेराभासत्वम्
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्दं ति मु खे रो के
श्या मा या यि मे सि च्य मा ने
र्ष्य न्त्या सि क्त प्य ल्प
स्वे दा म्बु स्न पि जा ते स्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.