शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः । सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥
शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः । सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥
मल्लिनाथः
सिञ्चन्त्या इति ॥ मनसिजदुःखेन स्मरपीडया दुर्बलाया अत एव कथमपि बाहुमुन्नमय्योद्यम्य प्रेयांसं प्रियतमम् । `प्रियस्थिर-` (अष्टाध्यायी ६.४.१५७ ) इत्यादिना प्रादेशः । सिञ्चन्त्याः स्नपयन्त्या अङ्गनायाः कराग्रात् सौवर्णं हिरण्मयं वलयं कंकणम् । `कंकणं वलयोऽस्त्रियाम्` इत्यमरः । लवणैव लावण्यं कान्तिविशेषः ।&#३२; चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । `लवणो रसरक्षोब्धिभेदेषु लवणा त्विषि` इति विश्वः । यद्वा-`मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥` तस्य श्रीः संपत् तस्याः शेषमतिरिक्तम् । शरीरसंपदवशिष्टमिति यावत् । `शेषः संकर्षणेऽनन्त उपयुक्तेतरेऽन्यवत्` इति विश्वः । तदिवावागलदपतत् । शेषमिति गुणनिमित्तजातिस्वरूपोत्प्रेक्षा
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.