Loading data... On slow networks this could take a few minutes.
100%

यान्तीनां सममसितभ्रुवां नतत्वा-
दंसानां महति नितान्तमन्तरेऽपि ।
संसक्तैविपुलतया मिथो नितम्बैः
सम्बाधं बृहदपि तद्बभूव वर्त्म ॥

मल्लिनाथः यान्तीनामिति ॥ समं पङ्क्तिशो यान्तीनाम् । `आच्छीनद्योर्नुम्` (अष्टाध्यायी ७.१.८० ) इति वैकल्पिको नुमागमः । असितभ्रुवां स्त्रीणामंसानां नतत्वाद्धेतोर्नितान्तं महत्यन्तरे अवकाशे सत्यपि विपुलतया हेतुना मिथःसंसक्तैरन्योन्यश्लिष्टैः नितम्बैर्बृहद्विस्तृतमपि तद्वर्त्म संबाध्यत इति संबाधः संकटम् । `संकटं ना तु संबाधः` इत्यमरः । घञन्तस्यापि विशेष्यलिङ्गत्वं संबाधमनुवर्तत इति भाष्यकारादिप्रयोगादिष्यते । बभूव । नतांसत्वनितम्बवैपुल्योक्त्या सौन्दर्यातिशय उक्तः । असंबाधेऽपि संबाधाभिधानादतिशयोक्तिः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
या न्ती नां सि भ्रु वां त्वा
दं सा नां ति नि ता न्त न्त रे ऽपि
सं क्तै वि पु या मि थो नि म्बैः
म्बा धं बृ पि द्ब भू र्त्म
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.