उन्निद्रप्रियकमनोरमं रमण्याः
संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै
नाक्रामन्नपि हि भवत्यलं जलौघः ॥

मल्लिनाथः उन्निद्रेति ॥ उन्निद्रं यत् प्रियकं असनकुसुमम् । `सर्जकासनबन्धूकपुष्पप्रियकजीवकाः` इत्यमरः । तदिव मनोरमम् । कनकगौरमित्यर्थः । रमण्या वपुः सरसि प्रकाशमेव जलमग्नमपि वैमल्याल्लक्ष्यमेव संरेजे । तथा हि—जलौघो जलपूरो, जडौघो मूर्खजनौघश्च डलयोरभेदात् । आक्रामन्नावृण्वन्नपि, अन्यत्र अधिक्षिपन्नपि विमलतया वैमल्येन युक्तानां शुद्धानां तिरस्क्रियायै तिरोधानाय, परिभवाय च अलं समर्थो न भवति हि । श्लेषमूलया भेदेऽभेदरूपातिशयोक्त्यानुप्राणितोऽयमर्थान्तरन्यासः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्नि द्र प्रि नो मं ण्याः
सं रे जे सि पुः प्र का मे
यु क्ता नां वि या ति स्क्रि या यै
ना क्रा न्न पि हि त्य लं लौ घः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.