Loading data... On slow networks this could take a few minutes.
100%

आदातुं दयितमिवावगाढमारा-
दूर्मीणां ततिभिरभिप्रसार्यमाणः ।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको
लक्ष्मीवान्सरसि रराज केशहस्तः ॥

मल्लिनाथः आदातुमिति ॥ सरसि वितताः प्रसारिताश्चलन्त्यश्च शिखा अग्राण्येवाङ्गुल्यो यस्य सः। `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप् । लक्ष्मीवान् शोभावान् । `मादुपधा याश्च मतोर्वोऽयवादिभ्यः` (अष्टाध्यायी ८.२.९ ) इति मतुपो मकारस्य वत्त्वम् । कस्याश्चित्केशहस्तः केशपाशः । `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः । हस्त इति करश्च ध्वन्यते । आरात्समीपे । `आरादूरसमीपयोः` इत्यमरः । अवगाढमन्तर्मग्नं दयितमादातुं ग्रहीतुमिव ऊर्मीणां ततिभिः समूहैरभिप्रसार्यमाणोऽभितो व्यापार्यमाणः सन् रराज । अत्रादातुमिव प्रसार्यमाण इति प्रसारणस्यादानार्थत्वोत्प्रेक्षणादियं क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । सा च चलच्छिखाङ्गुलीक इति रूपकानुप्राणितया हस्त इति श्लेषमूलया वाच्यस्य केशकलापस्य प्रतीयमानात्कराद्भेदे अभेदरूपातिशयोक्त्या निर्व्यूढेति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दा तुं यि मि वा गा मा रा
दू र्मी णां ति भि भि प्र सा र्य मा णः
स्या श्चि द्वि च्छि खा ङ्गु ली को
क्ष्मी वा न्स सि रा के स्तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.