Loading data... On slow networks this could take a few minutes.
100%

गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः
संक्षोभं जधनविघट्टनेन नीतः ।
अम्भोधिविकसितवारिजाननोऽसौ
मर्यादां सपदि विलङ्घयांबभूव ॥

मल्लिनाथः गाम्भीर्यमिति ॥ गाम्भीर्यमगाधत्वं, अविकारिचित्तत्वं च दधदपि गम्भीरः सन्नपि रन्तुं विहर्तुं संगन्तुं चाङ्गनाभिर्जघनस्य विघट्टनेन संघर्षेण संक्षोभं चलनं, चित्तविकारं च नीतः, अत एव विकसितं वारिजमाननमिव वारिजमिव चाननं यस्य सः अम्भांसि धीयन्तेऽस्मिन्निति अम्भोधिर्जलाशयः, असौ कश्चित्पुमांश्च तत्तुल्यो गम्यते । `कर्मण्यधिकरणे च` (अष्टाध्यायी ३.३.९३ ) इति किप्रत्ययः । सपदि मर्यादां सीमानं औचितीं च विलङ्घयांबभूव लङ्घितवान् । धीरोऽपि स्त्रीसंनिकर्षाद्विक्रियत इति भावः । अत्र गाम्भीर्यादिप्रकृताम्भोधिविशेषणसाम्यादप्रकृतविशेष्यपुरुषप्रतीतेः समासोक्तिरलंकारः । सा च प्रतीयमानाभेदाध्यवसायमूलातिशयोन्यनुप्राणितेति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
गा म्भी र्यं पि न्तु ङ्ग ना भिः
सं क्षो भं वि ट्ट ने नी तः
म्भो धि वि सि वा रि जा नो ऽसौ
र्या दां दि वि ङ्घ यां भू
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.