आनाभेः सरसि नतभ्रुवावगाढे
चापल्यादथ पयसस्तरङ्गहस्तैः ।
उच्छ्रायिस्तनयुगमध्यरोहि लब्ध-
स्पर्शानां भवति कुतोऽथवाव्यवस्था ॥

मल्लिनाथः आनाभेरिति ॥ नतभ्रुवा स्त्रिया सरसि आनाभेर्नाभिपर्यन्तम् । `आङ् मर्यादाभिविध्योः` (अष्टाध्यायी २.१.१३ ) इति विकल्पादसमासः । अवगाढे प्रविष्टे सति । गाहेः कर्मणि क्तः। अथ पयसश्चापल्याल्लौल्यात् । ब्राह्मणादिषु पाठात् ष्यञ्प्रत्ययः । तरङ्गैरेव हस्तैस्तरङ्गहस्तैरुच्छ्रायोऽस्यास्तीत्युच्छ्रायि उन्नतिमत् स्तनयुगमध्यरोहि अधिरूढम् । भिक्षुकपादप्रसारणन्यायादिति भावः । रोहतेः कर्मणि लुङ् । अथवा तथाहीत्यर्थः । लब्धस्पर्शानाम् । लब्धप्रवेशानामित्यर्थः । कुतः कुत्र वा । सार्वविभक्तिकस्तसिल् । व्यवस्था मर्यादा भवति । न कुत्रापीति भावः । प्रायेण सर्वेऽप्यसंभवब्रह्मचारिण एवेति भावः । अत्र चापल्यादिति द्वयोरपि लौल्ययोरभेदाध्यवसायमूलातिशयोक्त्या तरङ्गहस्तैरिति रूपकेण च पयसि कामित्वप्रतीतेः समासोक्तिः । तदुपजीवी चार्थान्तरन्यास इति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ना भेः सि भ्रु वा गा ढे
चा ल्या स्त ङ्ग स्तैः
च्छ्रा यि स्त यु ध्य रो हि ब्ध
स्प र्शा नां ति कु तो ऽथ वा व्य स्था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.