तिष्ठन्तं पयसि पुमांसमंसमात्रे
तद्दघ्नं तदवयती किलात्मनोऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्या-
दाश्लेषि द्रुतममुना निमज्जतीति ॥

मल्लिनाथः तिष्ठन्तमिति ॥ सुतनुः शुभाङ्गी स्त्री अंसः प्रमाणमस्येति अंसमात्रे अंसप्रमाणे । `प्रमाणे द्वयसज्दघ्नञ्मात्रचः` (अष्टाध्यायी ५.२.३७ ) इति मात्रच्प्रत्ययः । पयसि जले तिष्ठन्तं पुमांसम् । वीक्ष्येति शेषः । आत्मनोऽपि तत्पयः तद्दघ्नं तावन्मात्रमंसमानं अवयती जानती किल । तथा संभावयन्तीत्यर्थः । `वार्तासंभाव्ययोः किल` इत्यमरः । अवपूर्वादिणः शतरि `इणो यण` (अष्टाध्यायी ६.४.८१ ) इति यणादेशः । `उगितच` (अष्टाध्यायी ४.१.६ ) इति ङीप् । किलशब्दस्यालीकार्थत्वे मौग्ध्यविरोधः । अत एव मौग्ध्यादविवेकादभीर्निर्भीका सती अभ्येतुं पुमांसमभिगन्तुमियेष इच्छति स्म । अमुना पुंसा निमज्जतीति द्रुतमाश्लेषि आश्लिष्टा
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ति ष्ठ न्तं सि पु मां मं मा त्रे
द्द घ्नं ती कि ला त्म नो ऽपि
भ्ये तुं सु नु भी रि ये मौ ग्ध्या
दा श्ले षि द्रु मु ना नि ज्ज ती ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.