कान्तानां कुवलयमप्यपास्तमक्ष्णोः
शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गाय-
ल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥

मल्लिनाथः कान्तानामिति ॥ लोलोर्मौ चपलोर्मिणि । `तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य` (अष्टाध्यायी ७.१.७४ ) इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । `अरविन्दं महोत्पलम्` इत्यमरः । कान्तानां मुखरुचाऽहमेकमेव नापास्तं, किंतु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्संतोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । `इत्थंभूतलक्षणे` (अष्टाध्यायी २.३.२१ ) इति तृतीया । ननर्तेव । `न दुःखं पञ्चभिः सह` इति न्यायान्नृत्यति स्म । अत्रोर्मिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
का न्ता नां कु प्य पा स्त क्ष्णोः
शो भा भि र्न मु रु चा मे मे
सं र्षा लि वि रु तै रि ती गा
ल्लो लो र्मौ सि हो त्प लं र्त
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.