नेच्छन्ती सममुना सरोऽवगाढुं
रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लक्षद्भयचकितेक्षणं नवोढा
वोढारं विपदि न दूषितातिभूमिः ॥

मल्लिनाथः नेच्छन्तीति ॥ अमुना सममनेन भर्त्रा सह सरोऽवगाढुमवगाहितुम् । `स्वरतिसूतिसूयतिधूञूदितो वा` (अष्टाध्यायी ७.२.४४ ) इति विकल्पान्नेडागमः। नेच्छन्ती लज्जयाऽनिच्छन्ती । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अनञ्समासो वा । अथ सखीभिः प्रतिजलं जलं प्रति रोधस्तो रोधसः । पञ्चम्यास्तसिल् । ईरिता नुन्ना नवोढा नववधूः भयेन चकितेक्षणं संभ्रान्तदृष्टि यथा तथा वोढारं भर्तारमाश्लिक्षदालिङ्गितवती । `श्लिष आलिङ्गने` इति धातोर्लुङि च्लेः क्सादेशः । न च धार्यदोषापत्तिरित्याह । विपदि विपत्तौ अतिक्रान्ता भूमिरतिभूमिरमर्यादा न दूषिता । `आपत्काले नास्ति मर्यादा` इति न्यायादिति भावः । अर्थान्तरन्यासालंकारः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ने च्छ न्ती मु ना रो ऽव गा ढुं
रो स्तः प्र ति मी रि ता खी भिः
श्ल क्ष द्भ कि ते क्ष णं वो ढा
वो ढा रं वि दि दू षि ता ति भू मिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.