आयासादलघुतरस्तनैः स्वनद्भिः
श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहै-
स्तैरुर्वीनिहितचलत्पदं प्रचेले ॥

मल्लिनाथः आयासादिति ॥ अलघुतरस्तनैः पृथुतरकुचैरिति मान्द्यहेतूक्तिः । स्वनद्भिर्भूषाभिः श्रमश्वासैर्वा शब्दायमानैः । `स्वन शब्दे` इति धातोर्लटः शत्रादेशः । अविकचलोचनारविन्दैः श्रमनिमीलिताक्षिपद्मैः, आयासाद्वनविहारखेदात् , श्रान्तानां क्लान्तानां योषितां तैः समूहैः कर्तृभिः उर्व्यां निहितानि निक्षिप्तानि । `डुधाञ् धारणे` इति धातोः कर्मणि क्तः । तथैव चलन्ति पदानि यस्मिन् कर्मणि यद्यथा तथा । उत्क्षेपणाशक्त्या भुवि बलादाकृष्यमाणचरणमित्यर्थः । अभ्यम्भोऽम्भःप्रति कथमपि प्रचेले प्रचलितम् । भावे लिट् । स्वभावोक्तिरलंकारः । स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्` इति लक्षणात् । अस्मिन् सर्गे प्रहर्षिणी वृत्तम् । `म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्` इति लक्षणात्
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
या सा घु स्त नैः स्व द्भिः
श्रा न्ता ना वि लो ना वि न्दैः
भ्य म्भः पि यो षि तां मू है
स्तै रु र्वी नि हि त्प दं प्र चे ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.