Loading data... On slow networks this could take a few minutes.
100%

उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः
सस्नेहं विहगरुतैरिवालपन्तो ।
नारीणामथ सरसी सफेनहासा
प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥

मल्लिनाथः उत्क्षिप्तेति ॥ अथानन्तरमुत्क्षिप्तं स्फुटितसरोरुहं विकचारविन्दमेवार्घ्यमर्घ्यद्रव्यं यस्मिंस्तत्तथा सस्नेहं विहगरुतैरालपन्ती स्वागतादिवचनं व्याहरन्तीव स्थिता इत्युत्प्रेक्षा । फेन इव हासस्तेन सहिता सफेनहासा । स्मितपूर्वाभिभाषिणीत्यर्थः सरसी पुष्करिणी नारीणामूर्मिभिरेव हस्तैः पाद्यं पादोदकम् । `पादार्घाभ्यां च` (अष्टाध्यायी ५.४.२५ ) इति यत्प्रत्ययः । प्रीत्येवेत्युत्प्रेक्षा । व्यतनुत । रूपकानुप्राणितोत्प्रेक्षाद्वयस्य सापेक्षत्वात्संसृष्टिः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
त्क्षि प्त स्फु टि रो रु हा र्घ्य मु च्चैः
स्ने हं वि रु तै रि वा न्तो
ना री णा सी फे हा सा
प्री त्ये व्य नु पा द्य मू र्मि स्तैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.