मुग्धायाः स्मरललितेषु चक्रवाक्या
निशङ्कं दयिततमेन चुम्बितायाः ।
प्रणेशानभि विदधुर्वधूतहस्ताः
सीत्कारं समुचितमुत्तरं तरुण्यः ॥

मल्लिनाथः मुग्धाया इति ॥ दयिततमेन निःशङ्कं निर्विचारं चुम्बिताया दुष्टायाः स्मरललितेषु चुम्बनाद्यनन्तरकृत्येषु सीत्कारादिकामचेष्टितेषु मुग्धाया मूढायाः चक्रवाक्याः समुचितं योग्यं सीत्कारं सीत्काररूपमुत्तरं कृत्यं तरुण्यः स्वयं प्राणेशानभि विधूतहस्ताः सत्यो विदधुः । तादात्म्यभावनया स्वयं दष्टा इव सीञ्चक्रुरिति सीत्कारासंबन्धे तत्संबन्धातिशयोक्त्या तत्रासामुद्दीपकमासीदित्युक्तम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२ १३
मु ग्धा याः स्म लि ते षु क्र वा क्या
नि ङ्कं यि मे चु म्बि ता याः
प्र णे शा भि वि धु र्व धू स्ताः
सी त्का रं मु चि मु त्त रं रु ण्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.