नित्याया निजवसतेर्निरासिरे
यद्रागेण श्रियमरविन्दतः कराग्र्-
ऐः व्यक्तत्वं नियतमनेन निन्युरस्य्-
आः सापत्न्यं क्षितिसुतविद्विषो महिष्य्-
अः

मल्लिनाथः नित्याया इति ॥ क्षितिसुतविद्विषो नरकद्विषो हरेर्महिष्यः कराग्रैः पाणिपल्लवैः करणै रागेण रक्तवर्णेन, इच्छया च श्रियं शोभाम् , रमां च नित्यायाः संदातन्याः निजवसतेः स्ववासादरविन्दतोऽरविन्दान्निरासिरे निष्कासयांचक्रुः । निश्चक्रुश्चेति यावत् । `उपसर्गादस्यत्यूह्योर्वावचनम्` (वा०) इति विकल्पादात्मनेपदम् । अनेन निरासेनास्याः श्रियः सापत्यं सपत्नीत्वम् । ब्राह्मणादित्वात्ष्यञ् प्रत्ययः । व्यक्तत्वं निन्युः । व्यक्तीचक्रुरित्यर्थः । अत्र श्रीशब्देन रमाशोभयोरभेदा ध्यवसायेन श्रीनिवासस्य सापत्न्यव्यक्तीकरणार्थत्वोत्प्रेक्षणात् श्लेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितेयं फलोत्प्रेक्षेति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नि त्या या नि ते र्नि रा सि रे
द्रा गे श्रि वि न्द तः रा ग्रैः
व्य क्त त्वं नि ने नि न्यु स्याः
सा त्न्यं क्षि ति सु वि द्वि षो हि ष्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.