आलापैस्तुलितरवाणि माधवीनां
माधुर्यादमलपतत्रिणां कुलानि ।
अन्तर्धामुपययुरुत्पलावलीषु
प्रादुष्कात्क इव जितः पुरः परेण ॥

मल्लिनाथः आलापैरिति ॥ माधवीनां हरिवधूनामालापैः कर्तृभिः माधुर्याद्धेतोस्तुलितरवाणि तिरस्कृतरुतानि अमलपतत्रिणां हंसानां कुलानि उत्पलावलीष्वन्तर्धानम् । `अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्` (वा०) इति अन्तःशब्दस्योपसर्गत्वात् `आतश्चोपसर्गे (अष्टाध्यायी ३.३.१०६ ) इत्यङ् प्रत्ययः । उपययुः । युक्तं चैतदित्याह-तथाहि । परेण जितः कः । इवशब्दो वाक्यालंकारे । पुरो जेतुरग्रे प्रादुःष्यात् प्रादुर्भवेत् । `उपसर्गप्रादुर्भ्यामस्तिर्यच्परः` (अष्टाध्यायी ८.३.८७ ) इति षत्वम् । अर्थान्तरन्यासः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ला पै स्तु लि वा णि मा वी नां
मा धु र्या त्रि णां कु ला नि
न्त र्धा मु यु रु त्प ला ली षु
प्रा दु ष्का त्क जि तः पु रः रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.