आयान्त्यां निजयुवतौ वनात्सशङ्कं
बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं
कामिन्यः श्रदधुरनार्जवं नरेषु ॥

मल्लिनाथः आयान्त्यामिति ॥ निजयुवतौ वनादायान्त्यामागच्छन्त्यां सत्यां सशङ्कं सभयमपरशिखण्डिनीं जारिणीं बर्हाणां भरेण व्यवदधतं छादयन्तं मयूरं पुर आलोक्य कामिन्यः प्रियेष्वनार्जवं कौटिल्यं श्रदधुर्विश्वस्तवत्यः । कुटिलाः पुरुषा इति निश्चिक्युरित्यर्थः । दधातेर्लुङि `गातिस्था-` (अष्टाध्यायी २.४.७७ ) इत्यादिना सिचो लुक् । `आतः` (अष्टाध्यायी ३.४.११० ) इति झेर्जुसादेशः । `श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या` (वा०) इति श्रच्छब्दस्य धातोः प्राक् प्रयोगः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
या न्त्यां नि यु तौ ना त्स ङ्कं
र्हा णा शि ण्डि नीं रे
लो क्य व्य तं पु रो यू रं
का मि न्यः श्र धु ना र्ज वं रे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.