अभिमतमभितः कृताङ्गभङ्गा
कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन
व्यवृणुत वेल्लितबाहुवल्लरीका ॥

मल्लिनाथः अभिमतमिति ॥ तनुः काचित्तन्वी । `वोतो गुणवचनात्` (अष्टाध्यायी ४.१.४४ ) इति विकल्पादनीकारः । अभिमतमभितः। प्रियमभीत्यर्थः । उन्नतिवित्तं औन्नत्येन प्रतीतम् । विदेर्भावार्थात् `वित्तो भोगप्रत्यययोः` (अष्टाध्यायी ८.२.५८ ) इति प्रत्ययार्थे निष्ठानत्वाभावनिपातः । कुचयुगमुन्नमय्योत्तुङ्गीकृत्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा । तथा वेल्लिते मिथोवेष्टिते बाहुवल्लर्यौ भुजलते यया सा । `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप् । क्लमच्छलेन । श्रमापनोदकचेष्टाव्याजेनेत्यर्थः । अभिलषितमालिङ्गनाद्यभिलषितं व्यवृणुत प्रकटितवती । वृणोतेर्लङ् । प्रौढेयमुत्सुका च
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
भि भि तः कृ ता ङ्ग ङ्गा
कु यु मु न्न ति वि त्त मु न्न य्य
नु भि षि तं क्ल च्छ ले
व्य वृ णु वे ल्लि बा हु ल्ल री का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.