Loading data... On slow networks this could take a few minutes.
100%

हिमलतसदृशः श्रमोदबिन्दू-
नुपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चि-
त्तरलतया तरुणेन पस्पृशाते ॥

मल्लिनाथः हिमेति ॥ हिमलवसदृशो हिमकणनिभान् श्रमोदबिन्दून् । स्वेदबिन्दूनित्यर्थः । `मन्थौदन-` (अष्टाध्यायी ६.३.६० ) इत्यादिना उदकस्योदादेशः । अपनयता किल प्रमार्जतेव, न तु तत्र तात्पर्यमिति भावः । तरुणेन यूना नूतनोढवध्वाः कुचौ कलशाविव तौ च किशोरकाविव । उल्ललनसाम्यादश्वशावाविव । `अश्वशावः किशोरकः` इत्यमरः । तौ कुचकलशकिशोरकौ । उभयत्राप्युपमितसमासः । कथंचित् क्लेशेन । सप्रतिषेधमेवेत्यर्थः । तरलतया चपलतया । उत्सुकतयेत्यर्थः । पस्पृशाते स्पृष्टौ । स्पृशेः कर्मणि लिद । मुग्धेयम्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
हि दृ शः श्र मो बि न्दू
नु ता कि नू नो ध्वाः
कु कि शो कौ ञ्चि
त्त या रु णे स्पृ शा ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.