Loading data... On slow networks this could take a few minutes.
100%

अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥

मल्लिनाथः अविरतेति ॥ अविरतो यः कुसुमानामवचायो हस्तेन लवनम् । `हस्तादाने चेरस्तेये` (अष्टाध्यायी ३.३.४० ) इति घञ् । तेन यः खेदस्तस्मात् भर्तुरुपकण्ठं कण्ठे । विभक्त्यर्थेऽव्ययीभावः । निहिते भुजालते यया तया । `दोः प्रकोष्ठो भुजो बाहुर्भुजा च स्मर्यते बुधैः` इति वैजयन्ती । विपुलतरौ निरन्तरमवलग्नौ संश्लिष्टौ च यौ स्तनौ ताभ्यां पिहितं छादितं प्रियस्य वक्षो यया तयैकया स्त्रिया ललम्बे लम्बितम् । भावे लिट्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.