Loading data... On slow networks this could take a few minutes.
100%

विपुलकमपि यौवनोद्धतानां
घनपुलकोदयकोमलं चकाशे ।
परिमलितमपि प्रियैः प्रकामं
कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥

मल्लिनाथः विपुलकमिति ॥ यौवनोद्धतानां कामिनीनां कुचयुगं विपुलकं पुलकरहित मपि घनपुलकोदयेन सान्द्ररोमोद्गमेन कोमलं सदिति विरोधः । विपुलं विस्तृतं तदेव विपुलकमित्यविरोधः । प्रियैः प्रकामं परितो मलमस्येति परिमलं तत्कृतं परिमलितं मलिनीकृतं तथाप्युज्ज्वलं विमलमेव चकाश इति विरोधः । परिमलवत्कृतं परिमलितमित्यविरोधः । मत्वन्तात् `तत्करोति-` (ग०) इति णिचि कर्मणि क्तः । णाविष्ठवद्भावे विन्मतोर्लुक् । अपिर्विरोधे । विरोधाभासालंकारयोः संसृष्टिः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि पु पि यौ नो द्ध ता नां
पु को को लं का शे
रि लि पि प्रि यैः प्र का मं
कु यु मु ज्ज्व मे का मि नी नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.