तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥

मल्लिनाथः तवेत्यादि ॥ तां मत्सखीं सपदि तव समीपमहमानये आनयिष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । कर्तुरभिप्राये आत्मनेपदम् । इति मया तस्याअतोऽभ्यधाय्यभिहितम् । दधातेः कर्मणि लुङ् `आतो युक् चिण्कृतोः` (७३। ३३) इति युगागमः । हे गुणगौरि गुणैः सौभाग्यदाक्षिण्यादिभिर्गौरि पार्वतीति रूपकम् । अतिरभसेनातित्वरया कृता अलघुर्महती प्रतिज्ञा त्वदानयनार्था यया तां मामनृतगिरमसत्यवाचं मा कृथाः मा कार्षीः। मद्वचनं सर्वथा कर्तव्यमित्यर्थः । करोते ङि थास् `न माङ्योगे` (६।४७४) इत्यडागमप्रतिषेधः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.