गुरुनिबिडनितम्बबिम्बभारा-
क्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु
स्वरसमसक्तमलक्तकच्छलेन ॥

मल्लिनाथः गुर्विति ॥ गुरु गुरुत्वगुणयुक्तं निबिडं दृढं च यन्नितम्बबिम्बं तदेव भारस्तस्याक्रमणेनाधिष्ठानेन निपीडितं निष्पीडितमङ्गनाजनस्य चरणयुगं कर्तृ, पदेषु पादन्यासस्थानेष्वलक्तकच्छलेन लाक्षारसमिषेण स्वरसं स्वद्रवमेव । `गुणे रागे द्रवे रसः` इत्यमरः । असक्तमविच्छिन्नं यथा तथाऽसुस्रुवत् स्रवति स्म । स्रवतेः क्षरणार्थाल्लुङि `णिश्रि-` (अष्टाध्यायी ३.१.४८ ) इत्यादिना चङि धातोरुवङादेशः । द्रवद्रव्यकर्तृक एवायमकर्मकः । अन्यकर्तृकत्वे तु सकर्मकः । अत्रालक्तकच्छलेनेत्यलक्तकापह्नवेन रूपरसत्वारोपाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
गु रु नि बि नि म्ब बि म्ब भा रा
क्र नि पी डि ङ्ग ना स्य
यु सु स्रु त्प दे षु
स्व क्त क्त च्छ ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.