न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण । वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥

मल्लिनाथः न चेति ॥ हे सुतनु शुभाङ्गि, दीर्घान्तोत्तरपदात्संबुद्धिः, अन्यथा गुणः स्यात् । अहं न वेद्मीति न । किंतु वेद्म्येवेत्यर्थः । किं तद्वेत्सीत्यत आह-महीयान् महत्तरः तव निश्चयस्त्वदनैक्ये प्रतिज्ञा परेण जनान्तरेण सुनिरसः सुखमोच्यः । अस्यतेः खल्प्रत्ययः । स न भवतीत्यसुनिरस इति यत्तदित्यर्थलभ्यम् । उद्देश्येन विधेयाक्षेपाद्यच्छब्दस्योत्तरवाक्यस्थत्वाच्च न पूर्ववाक्ये तच्छब्दप्रयोग इति निबन्धः । तथापि विदितत्वेऽप्यसौ मत्सखी जातु कदाचिदपि मद्वचो न वितथयति नानृतीकरोतीति सखीषु मध्ये मेऽभिमानः । स्वप्रतिज्ञाभङ्गेऽपि मत्प्रतिज्ञामेव पालयसीत्यहंकारान्निःशङ्कं प्रतिज्ञातमित्यर्थः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.