मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥
मल्लिनाथः
मुहुरिति ॥ नितम्बिनीभिरुक्तधर्मोपलक्षिताभिः स्त्रीभिर्मुहुरित्येवं वनविभ्रमाभिषङ्गात् वनभ्रमणासङ्गात् तदा नितरामतमि तान्तम् । तमेर्ण्यन्ताद्भावे लुङ् `नोदात्तोपदेशस्य मान्तस्यानाचमेः` (अष्टाध्यायी ७.३.३४ ) इति वृद्धिप्रतिषेधः । युक्तं चैतदित्याह-मृदुतरतनवोऽतिकोमलाङ्गयस्ताः स्त्रियः प्रकृत्या अलसा जडाः, अथ चिरमपि प्रयासभाजश्चेत् किमुत । सुतरामलसाः स्युरित्यर्थः । अत्राप्रकृतनैसर्गिकालस्यस्य कथनेनागन्तुकस्य कैमुत्यन्यायतः सिद्धत्ववर्णनादर्थापत्तिरलंकारः । `एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥` इति लक्षणात् । श्रमश्चात्र संचारी वाच्यः । `श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मर्दनादयः` (दशरूपके ४।१२) इति लक्षणात्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.