अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥
मल्लिनाथः
अपगतेति ॥ पुनश्चिराय चिरं क्षितिगमनेनापगतो नवयावको नवलाक्षारागो येषां तैः पुनस्तेनैव वितीर्णरागैः सौकुमार्यादुत्पादितरागैः परस्परस्य भृशविनिवेशवशात् स्थिरन्यासबलात् एकं स्थिरं निवेश्य तदवष्टम्भेन । इतरचालनक्रमेणेत्यर्थः । कथमपि महता प्रयत्नेन । `कथमादि तथाप्यन्तं यत्नगौरवभेदयोः` इत्युत्पलः । चलद्भिश्चरणोत्पलैः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.