अतनुकुचभरानतेन भूयः
श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं
कलभकरोरुभिरूरुभिर्दधानैः ॥

मल्लिनाथः अतन्विति ॥ पुनः अतनुना महता कुचभरेणानतेन नम्रेण । प्रागेवेति भावः । भूयः पुनश्च श्रमजनिता आनतिर्यस्य तेन शरीरकेण सुकुमारशरीरेण । किंच अनुचिताऽनभ्यस्ता । `अभ्यस्तेऽप्युचितं न्याय्यम्` इति यादवः । तया गत्या पादचारेण यः सादः कार्श्यं तेन यन्निःसहत्वमक्षमत्वं तद्दधानैः । गन्तुमक्षमैरित्यर्थः । `न सहन्त इति निःसहाः । पचाद्यजन्तेनोपसर्गस्य समासे त्वप्रत्ययः । कलभकराः करिहस्ता इवोरवो महान्तस्तैरूरुभिः सक्थिभिः । `सक्थि क्लीवे पुमानूरुः` इत्यमरः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
नु कु रा ते भू यः
श्र नि ता ति ना री के
नु चि ति सा निः त्वं
रो रु भि रू रु भि र्द धा नैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.