Loading data... On slow networks this could take a few minutes.
100%

स्मरसरसमुरःस्थलेन पत्यु-
र्विनिमयसंक्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव
स्तनयुगलैरितरेतरं निषण्णैः ॥

मल्लिनाथः स्मरेति ॥ पुनः स्मरेण सरसं सानुरागं यथा तथा पत्युरुरःस्थलेन कर्त्रा विनिमयेन व्यतिहारेण संक्रमितोऽङ्गरागोऽनुलेपनं तेन रागो रञ्जनं येषु तैः अतिशयोऽतिशयितो यः खेदस्तस्य संपदा महिम्नेवेत्युत्प्रेक्षा । भृशमितरेतरं निषण्णैः परस्परं संश्रितैः स्तनयुगलैः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
स्म मु रः स्थ ले त्यु
र्वि नि सं क्र मि ता ङ्ग रा रा गैः
भृ ति खे म्प दे
स्त यु लै रि रे रं नि ण्णैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.